|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.48. अध्यायः 048
Mahabharata - Bhishma Parva - Chapter Topics
श्वेतयुद्धम् ॥ 1 ॥ भीष्मेण श्वेतवधः ॥ 2 ॥

Mahabharata - Bhishma Parva - Chapter Text
धृतराष्ट्र उवाच। 6-48-0x(4109)(40522)
एवं श्वेते महेष्वासे प्राप्ते शल्यरथं प्रति।
कुरवः पाण्डवेयाश्च किमकुर्वत सञ्जय ॥ 6-48-1(40523)
भीष्मः शान्तनवः किं वा तन्ममाचक्ष्व पृच्छतः । 6-48-2(40524)
सञ्जय उवाच।
राजञ्शतसहस्राणि ततः क्षत्रियपुङ्गवाः ॥ 6-48-2x(4110)
श्वेतं सेनापतिं शूरं पुरस्कृत्य महारथाः ।
राज्ञो बलं दर्शयन्तस्तव पुत्रस्य भारत ॥ 6-48-3(40525)
शिखण्डिनं पुरस्कृत्य त्रातुमैच्छन्महारथाः ।
अभ्यवर्तन्त भीष्मस्य रथं हेमपरिष्कृतम् ॥ 6-48-4(40526)
जिघांसन्तं युधांश्रेष्ठं तदासीत्तुमुलं महत् ।
तत्तेऽहं संप्रवक्ष्यामि महावैशसमच्युत ॥ 6-48-5(40527)
तावकानां परेषां च यथा युद्धमवर्तत ।
तत्राकरोद्रथोपस्थाञ्शून्याञ्शान्तनवो बहून् ॥ 6-48-6(40528)
तत्राद्भुतं महच्चक्रे शरैरार्च्छद्रथोत्तमान् ।
समावृणोच्छरैरर्कमर्कतुल्यप्रतापवान् ॥ 6-48-7(40529)
नुदन्समन्तात्समरे रविरुद्यन्यथा तमः ।
तेनाजौ प्रेषिता राजञ्शराः शतसहस्रशः ॥ 6-48-8(40530)
क्षत्रियान्तकराः सङ्ख्ये महावेगा महाबलाः ।
शिरांसि पातयामासुर्वीराणां शतशो रणे ॥ 6-48-9(40531)
गजान्कण्टकसन्नाहान्वज्रेणेव शिलोच्चयान् ।
रथा रथेषु संसक्ता व्यदृश्यन्त विशांपते ॥ 6-48-10(40532)
एके रथं पर्यवहंस्तुरगाः सतुरंगमम् ।
युवानं निहतं वीरं लम्बमानं सकार्मुकम् ॥ 6-48-11(40533)
उदीर्णाश्च हया राजन्वहनक्तस्तत्रतत्र ह।
बद्धस्वङ्गनिषङ्गाश्च विध्वस्तशिरसो हताः ॥ 6-48-12(40534)
शतशः पतिता भूमौ वीरशय्यासु शेरते ।
परस्पेरण धावन्तः पतिताः पुनरुत्थिताः ॥ 6-48-13(40535)
उत्थाय च प्रधावन्तो द्वन्द्वयुद्धमवाप्नुवन् ।
पीडिताः पुनरन्योन्यं लुठन्तो रणमूर्धनि ॥ 6-48-14(40536)
सचापाः सनिषङ्गाश्च जातरूपपरिष्कृताः ।
विस्रब्धहतवीराश्च शतशः परिपीडिताः ॥ 6-48-15(40537)
तेनतेनाभ्यधावन्त विसृजन्तश्च भारत ।
मत्तो गजः पर्यवर्तद्धयांश्च हतसादिनः ॥ 6-48-16(40538)
सरथा रथिनश्चापि विमृद्गन्तः समन्ततः ।
स्यान्दनादपतत्कश्चिन्निहतोऽन्येन सायकैः ॥ 6-48-17(40539)
हतसारथिरप्युच्चैः पपात काष्ठवद्रथः ।
युध्यमानस्य संग्रामे व्यूढे रजसि चोत्थिते ॥ 6-48-18(40540)
धनुःकूजितविज्ञानं तत्रासीत्प्रतियुद्ध्यतः।
गात्रस्पर्शेन योधानां व्यज्ञास्त परिपन्थिनम् ॥ 6-48-19(40541)
युद्ध्यमानं शरै राजन्सिञ्जिनीध्वजिनीरवात्।
अन्योन्यं वीरसंशब्दो नाश्रूयत भटैः कृतः ॥ 6-48-20(40542)
शब्दायमाने संग्रामे पटहे कर्णदारिणि।
युध्यमानस्य संग्रामे कुर्वतः पौरुषं स्वकम् ॥ 6-48-21(40543)
नाश्रौषं नामगोत्राणि कीर्तनं च परस्परम् ।
भीष्मचापच्युतैर्बाणैरार्तानां युध्यतां मृधे ॥ 6-48-22(40544)
परस्परेषां वीराणां मनांसि समकम्पयन् ।
तस्मिन्नत्याकुले युद्धे दारुणे रोमहर्षणे ॥ 6-48-23(40545)
पिता पुत्रं च समरे नाभिजानाति कश्चन ।
चक्रे भग्ने युगे च्छिन्ने एकधुर्ये हये हतः ॥ 6-48-24(40546)
आक्षिप्तः स्यन्दनाद्वीरः समारथिरजिह्मगैः।
एवं च समरे सर्वे वीराश्च विरथीकृताः ॥ 6-48-25(40547)
तेन तेन स्म दृश्यन्ते धावमानाः समंततः ।
गजो हतः शिरश्छिन्नं मर्म भिन्नं हयो हतः ॥ 6-48-26(40548)
अहतः कोपि नैवासीद्भीष्मे नघ्नति शात्रवान् ।
श्वेतः कुरूणामकरोत्क्षयं तस्मिन्महाहवे ॥ 6-48-27(40549)
राजपुत्रान्रथोदारानवधीच्छतसङ्घशः।
चिच्छेद रथिनां बाणैः शिरांसि भरतर्षभ ॥ 6-48-28(40550)
साङ्गदा बाहवश्चैव धनूंषि च समंततः।
रथेषां रथचक्राणि तूणीराणि युगानि च ॥ 6-48-29(40551)
छत्राणि च महार्हाणि पताकाश्च विशांपते।
हयैघाश्च रथौघाश्च नरौघाश्चैव भारत ॥ 6-48-30(40552)
वारणाः शतशश्चैव हताः श्वेतेन भारत ।
वयं श्वेतभयाद्भीता विहाय रथसत्तमम् ॥ 6-48-31(40553)
अपयातास्तथा पश्चाद्विभुं पश्याम धृष्णवः ।
शरपातमतिक्रम्य कुरवः कुरुनन्दन ॥ 6-48-32(40554)
भीष्मं शान्तनवं युद्धे स्थिताः पश्याम सर्वशः ।
अदीनो दीनसमये भीष्मोऽस्माकं महाहवे ॥ 6-48-33(40555)
एकस्तस्थौ नरव्याघ्रो गिरिर्मेरुरिवाचलः।
आददान इव प्राणान्सविता शिशिरात्यये ॥ 6-48-34(40556)
गभस्तिभिरिवादित्यस्तस्थौ शरमरीचिमान्।
स मुमोच महेष्वासः शरसङ्घाननेकशः ॥ 6-48-35(40557)
निघ्नन्नमित्रान्समरे वज्रपाणिरिवासुरान् ।
ते वध्यमाना भीष्मेण प्रजहुस्तं महाबलम् ॥ 6-48-36(40558)
स्वयूथादिव ते यूथान्मुक्तं भूमिषु दारुणम् ।
तमेवमुपलक्ष्यैको हृष्टः पुष्टः परंतप ॥ 6-48-37(40559)
दुर्योधनप्रिये युक्तः पाण्डवान्परिशोचयन्।
जीवितं दुस्त्यजं त्यक्त्वा भयं च सुमहाहवे ॥ 6-48-38(40560)
पातयामास सैन्यानि पाण्डवानां विशांपते ।
प्रहरन्तमनीकानि पिता देवव्रतस्तव ॥ 6-48-39(40561)
दृष्ट्वा सेनापतिं भीष्मस्त्वरितः श्वेतमभ्ययात्।
स भीष्मं शरजालेन महता समवाकिरत् ॥ 6-48-40(40562)
श्वेतं चापि तथा भीष्मः शरौघैः समवाकिरत् ।
तौ वृषाविव नर्दन्तौ मत्ताविव महाद्विपौ ॥ 6-48-41(40563)
व्याघ्राविव सुसंरब्धावन्योन्यमभिजघ्नतुः ।
अस्त्रैरस्त्राणि संवार्य ततस्तौ पुरुषर्षभौ ॥ 6-48-42(40564)
भीष्मः श्वेतश्च युयुधे परस्परवधैषिणौ ।
एकाह्ना निर्दहेद्भीष्मः पाम्डवानामनीकिनीम् ॥ 6-48-43(40565)
शरैः परमसंक्रुद्धो यदि श्वेतो न पालयेत्।
पितामहं ततो दृष्ट्वा श्वेतो विमुखीकृतम् ॥ 6-48-44(40566)
प्रहर्षं पाण्डवा जग्मुः पुत्रस्ते विमनाभवत्।
ततो दुर्योधनः क्रुद्धः पार्थिवैः परिवारितः ॥ 6-48-45(40567)
ससैन्यः पाण्डवानीकमभ्यद्रवत संयुगे।
दुर्मुखः कृतवर्मा च कृपः शल्यो विशांपतिःक ॥ 6-48-46(40568)
भीष्मं जुगुपुरासाद्य तव पुत्रेण नोदिताः।
दृष्ट्वा तु पार्थिवैः सर्वैर्दुर्योधनपुरोगमैः ॥ 6-48-47(40569)
पाण्डवानामनीकानि वध्यमानानि संयुगे।
श्वेतो गाङ्गेयमुत्सृज्य तव पुत्रस्य वाहिनीम् ॥ 6-48-48(40570)
नाशयामास वेगेन वायुर्वृक्षानिवौजसा ।
द्रावयित्वा चमूं राजन्वैराटिः क्रोधमूर्च्छितः ॥ 6-48-49(40571)
आपतत्सहसा भूयो यत्र भीष्मो व्यवस्थितः ।
तौ तत्रोपगतौ राजञ्शरदीप्तौ महाबलौ ॥ 6-48-50(40572)
अयुध्येतां महात्मानौ यथोभौ वृत्रवासवौ ।
अन्योन्यं तु महाराज परस्परवधैषिणौ ॥ 6-48-51(40573)
निगृह्य कार्मुकं श्वेतो भीष्मं विव्याध सप्तभिः ।
पराक्रमं ततस्तस्य पराक्रम्य पराक्रमी॥ 6-48-52(40574)
तरसा वारयामास मत्तो मत्तमिव द्विपम्।
श्वेतः शान्तनवं भूयः शरैः सन्नतपर्वभिः ॥ 6-48-53(40575)
विव्याध प़ञ्चविंशत्या तदद्भुतमिवाभवत्।
तं प्रत्यविध्यद्दशभिर्भीष्मः शान्तनवस्तदा ॥ 6-48-54(40576)
स विद्धस्तेन बलवान्नाकम्पत यथाऽचलः ।
वैराटिः समरे क्रुद्धो भृशमायम्य कार्मुकम् ॥ 6-48-55(40577)
आजघान ततो भीष्मं श्वेतः क्षत्रियनन्दनः।
संप्रहस्य तत श्वेतः सृक्किणी परिसंलिहन् ॥ 6-48-56(40578)
घनुश्चिच्छेद भीष्मस्य नवभिर्दशधा शरैः ।
संधाय विशिखं चैव शरं लोमप्रवाहिनम् ॥ 6-48-57(40579)
उन्ममाथ ततस्तालं ध्वजशीर्षं महात्मनः ।
केतुं निपतितं दृष्ट्वा भीष्मस्य तनयास्तव ॥ 6-48-58(40580)
हतं भीष्मममन्यन्त श्वेतस्य वशमागतम्।
पाण्डवाश्चापि संहृष्टा दध्मुः शङ्खान्मुदा युताः ॥ 6-48-59(40581)
भीष्मस्य पतितं केतुं दृष्ट्वा तालं महात्मनः ।
ततो दुर्योधनः क्रोधात्स्वमनीकमनोदयत् ॥ 6-48-60(40582)
यत्ता भीष्मं परीप्सध्वं रक्षमाणाः समंततः।
मा नः प्रपश्यमानानां श्वेतान्मृत्युमवाप्स्यति ॥ 6-48-61(40583)
भीष्मः शान्तनवः शूरस्तथा सत्यं ब्रवीमि वः।
राज्ञस्तु वचनं श्रत्वा त्वरमाणा महारथाः ॥ 6-48-62(40584)
बलेन चतुरङ्गेण गाङ्गेयप्रन्वपालयन्।
बाह्लीकः कृतवर्मा च शलः शल्यश्च भारत ॥ 6-48-63(40585)
जलसन्धो विकर्णश्च चित्रसेनो विविंशतिः।
त्वरमाणास्त्वराकाले परिवार्य समंततः ॥ 6-48-64(40586)
शस्त्रवृष्टिं सुतुमुलां श्वेतस्योपर्यपातयन्।
तान्क्रुद्धो निशितैर्बाणैस्त्वरमाणो महारथः ॥ 6-48-65(40587)
अवारयदमेयात्मा दर्शयन्पाणिलाघवम् ।
स निवार्य तु तान्सर्वान्केसरी कुञ्जराविव ॥ 6-48-66(40588)
महता शरवर्षेण भीष्मस्य धनुराच्छिनत्।
ततोऽन्यद्धनुरादाय भीष्मः शान्तनवो युधि ॥ 6-48-67(40589)
श्वेतं विव्याध राजेन्द्र कङ्कपत्रैः शितैः शरैः ।
ततः सेनापतिः क्रुद्धो भीष्मं बहुभिरायसैः ॥ 6-48-68(40590)
विव्याध समरे राजन्सर्वलोकस्य पश्यतः ।
ततः प्रव्यथितो राजा भीष्मं दृष्ट्वा निवारितम् ॥ 6-48-69(40591)
प्रवीरं सर्वलोकस्य श्वेतेन युधि वै तदा।
निष्ठानकश्च सुमहांस्तव सैन्यस्य चाभवत् ॥ 6-48-70(40592)
तं वीरं वारितं दृष्ट्वा श्वेतेन शरविक्षतम् ।
हतं श्वेतेन मन्यन्ते श्वेतस्य वशमागतम् ॥ 6-48-71(40593)
ततः क्रोधवशं प्राप्तः पिता देवव्रतस्तव ।
ध्वजमुन्मतितं दृष्ट्वा तां च सेनां निवारिताम् ॥ 6-48-72(40594)
श्वेतं प्रति महाराज व्यसृजत्प्तायकान्बहून् ।
तानावार्य रणे श्वेतो भीष्मस्य रथिनां वरः ॥ 6-48-73(40595)
धनुश्चिच्छेद भल्लेन पुनरेव पितुस्तव।
उत्सृज्य कार्मुकं राजन्गाङ्गेयः क्रोधमूर्च्छितः ॥ 6-48-74(40596)
अन्यत्कार्मुकमादाय विपुलं बलवत्तरम्।
तत्र संधाय विपुलान्भल्लान्सप्त शिलाशितान् ॥ 6-48-75(40597)
चतुर्भिश्च जघानाश्वाञ्श्वेतस्य पृतनापतेः ।
ध्वजं द्वाभ्यां तु चिच्छेद सप्तमेन च सारथे ॥ 6-48-76(40598)
शिरश्चिच्छेद भल्लेन संक्रुद्धोऽलघुविक्रमः ।
हताश्वसूतात्सु रथादवप्लुत्य महाबलः ॥ 6-48-77(40599)
अमर्षवशमापन्नो व्याकुलः समपद्यत ।
विरथं रथिनां श्रेष्ठं श्वेतं दृष्ट्वा पितामहः ॥ 6-48-78(40600)
ताडयामास निशितैः शरसङ्घैः समंततः ।
स ताड्यमानः समरे भीष्मचापच्युतैः शरैः ॥ 6-48-79(40601)
स्वरथे धनुरुत्सृज्य शक्तिं जग्राह काञ्चनीम् ।
ततः शक्तिं रणे श्वेतो जग्राहोग्रं महाभयाम् ॥ 6-48-80(40602)
कालदण्डोपमां घोरां मृत्योर्जिह्वामेव श्वसन् ।
अब्रवीच्च तदा श्वेतो भीष्मं शान्तनवं रणे ॥ 6-48-81(40603)
तिष्ठेदानीं सुसंरब्धः पश्य मां पुरुषो भव।
एवमुक्त्वा महेष्वासो भीष्मं युधि पराक्रमी ॥ 6-48-82(40604)
ततः शक्तिममेयात्मा चिक्षेप भुजगोपमाम्।
पाण्डवार्थे पराक्रान्तस्तवानर्थं चिकीर्षुकः ॥ 6-48-83(40605)
हाहाकारो महानासीत्पुत्राणां ते विशांपते ।
दृष्ट्वा शक्तिं महाघोरां मृत्योर्दण्डसमप्रभाम् ॥ 6-48-84(40606)
श्वेतस्य करनिर्मुक्तां निर्मुक्तोरगसन्निभाम् ।
अपतत्सहसा राजन्महोल्केव नभस्तलात् ॥ 6-48-85(40607)
ज्वलन्तीमन्तरिक्षे तां ज्वालाभिरिव संवृताम् ।
असंभ्रान्तस्तदा राजन्पिता देवव्रतस्तव ॥ 6-48-86(40608)
अष्टभिर्नवभिर्भीष्मः शक्तिं चिच्छेद पत्रिभिः ।
उत्कृष्टहेमविकृतां निकृतां निशितैः शरैः ॥ 6-48-87(40609)
उच्चुक्रुशुस्ततः सर्वे तावका भरतर्षभ ।
शक्तिं विनिहतां दृष्ट्वा वैराटिः क्रोधमूर्च्छितः ॥ 6-48-88(40610)
कालोपहतचेतास्तु कर्तवक्यं नाभ्यजानत।
क्रोधसंमूर्च्छितो राजन्वैराटिः प्रहसन्निव ॥ 6-48-89(40611)
गदां जग्राह संहृष्टो भीष्मस्य निधनं प्रति।
क्रोधेन रक्तनयनो दण्डपाणिरिवान्तकः ॥ 6-48-90(40612)
भीष्मं समिदुद्राव जलौघ इव पर्वतम्।
तस्य वेगमसंवार्यं मत्वा भीष्मः प्रतापवान् ॥ 6-48-91(40613)
प्रहारविप्रमोक्षार्थं सहसा धरणींगतः।
श्वेतः क्रोधसमाविष्टो भ्रामयित्वा तु तां गदाम् ॥ 6-48-92(40614)
रथे भीष्मस्य चिक्षेप यथा देवो धनेश्वरः ।
तया भीष्मनिपातिन्या स रथो भस्मसात्कृतः ॥ 6-48-93(40615)
सध्वजः सह सूतेन साश्वः सयुगबन्धुरः ।
विरथं रथिनां श्रेष्ठं भीष्मं दृष्ट्वा रथोत्तमकाः ॥ 6-48-94(40616)
अभ्यधावन्त सहिताः शल्यप्रभृतयो रथाः।
ततोऽन्यं रथमास्थाय धनुर्विस्फार्य दुर्मनाः ॥ 6-48-95(40617)
शनकैरभ्यायाच्छ्वेतं गाङ्गेयः प्रहसन्निव।
एतस्मिन्नन्तरे भीष्मः शुश्राव विपुलां गिरम् ॥ 6-48-96(40618)
आकाशादीरितां दिव्यामात्मनो हितसंभवाम् ।
भीष्मभीष्म महाबाहो शीघ्रं यत्नं कुरुष्व वै ॥ 6-48-97(40619)
एष ह्यस्य जये कालो निर्दिष्टो विश्वयोनिना ।
एतच्छ्रुत्वा तु वचनं देवदूतेन भाषितम् ॥ 6-48-98(40620)
संप्रहृष्टमना भूत्वा वधे तस्य मनो दधे ।
विरथं रथिनां श्रेष्ठं श्वेतं दृष्ट्वा पदातिनम् ॥ 6-48-99(40621)
सहितास्त्वभ्यवर्तन्त परीप्सन्तो महारथाः ।
सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ॥ 6-48-100(40622)
कैकेयो धृष्टकेतुश्च अभिमन्युश्च वीर्यवान्।
एतानापततः सर्वान्द्रोणशल्यकृपैः सह ॥ 6-48-101(40623)
अवारयदमेयात्मा वारिवेगानिवाचलः ।
स निरुद्धेषु सर्वेषु पाण्डवेषु महात्मसु ॥ 6-48-102(40624)
श्वेतः खङ्गमथाकृष्य भीष्मस्य धनुराच्छिनात्।
तदपास्य धनुश्छिन्नं त्वरमाणः पितामहः ॥ 6-48-103(40625)
देवदूतवचः श्रुत्वा वधे तस्य मनो दधे ।
ततः प्रचरमाणस्तु पिता देवव्रतस्तव ॥ 6-48-104(40626)
अन्यत्कार्मुकमादाय त्वरमाणो महारथः।
क्षणेन सज्यमकरोच्छक्रचापसमप्रभम् ॥ 6-48-105(40627)
पिता ते भरतश्रेष्ठ श्वेतं दृष्ट्वा महारथैः ।
वृतं तं मनुजव्याघ्रैर्भीमसेनपुरोगमैःक ॥ 6-48-106(40628)
अभ्यवर्तत गाङ्गेयः श्वेतं सेनापतिं द्रुतम् ।
आपतन्तं ततो भीष्मो भीमसेनं प्रतापवान् ॥ 6-48-107(40629)
आजघ्ने विशिखैः षष्ट्या सेनान्यं स महारथः ।
अभिमन्युं च समरे पिता देवव्रतस्तव ॥ 6-48-108(40630)
आजघ्ने भरतश्रेष्ठस्त्रिभिः सन्नतपर्वभिः ।
सात्यकिं च शतेनाजौ भरतानां पितामहः ॥ 6-48-110aधृष्टद्युम्नं च विंशत्या कैकेयं चापि पञ्चभिः ।
तांश्च सर्वान्महेष्वासान्पिता देवव्रतस्तव ॥ 6-48-109(40631)
वारयित्वा शरैर्घोरैः श्वेतमेवाभिदुद्रुवे।
ततः शरं मृत्युसमं भारसाधनमुत्तमम् ॥ 6-48-111(40632)
विकृष्य बलवान्भीष्मः समाधत्त दुरासदम्।
ब्रह्मास्त्रेण सुसंयुक्तं तं शरं लोमवाहिनम् ॥ 6-48-112(40633)
ददृशुर्देवगन्धर्वाः पिशाचोरगराक्षसाः ।
स तस्य कवचं भित्वा हृदयं चामितौजसः ॥ 6-48-113(40634)
जगाम धरणीं बाणो महाशनिरिव ज्वलन्।
अस्तं गच्छन्यथाऽऽदित्यः प्रभाप्रादाय सत्वरः ॥ 6-48-114(40635)
एवं जीवितमादाय श्वेतदेहाञ्जगाम ह।
तं भीष्मेण नरव्याघ्रं तथा विनिहतं युधि ॥ 6-48-115(40636)
प्रपतन्तमपश्याम गिरेः शृङ्गमिव च्युतम्।
अशोचन्पाण्डवास्तत्र क्षत्रियाश्च महारथाः ॥ 6-48-116(40637)
प्रहृष्टाश्च सुतास्तुभ्यं कुरवश्चापि सर्वशः । 6-48-117bततो दुःशासनो राजञ्श्वेतं दृष्ट्वा निपातितम् ॥ 6-48-117(40638)
वादित्रनिनदैर्घोरैर्नृत्यति स्म समंततः ।
तस्मिन्हते महेष्वासे भीष्मेणाहवशोभिना ॥ 6-48-118(40639)
प्रावेपन्त महेष्वासाः शिखण्डिप्रमुखा रथाः ।
ततो धनंजयो राजन्वार्ष्णेयश्चापि सर्वशः ॥ 6-48-119(40640)
अवहारं शनैश्चक्रुर्निहते वाहिनीपतौ।
ततोऽवहारः सैन्यानां तव तेषां च भारत ॥ 6-48-120(40641)
तावकानां परेषां च नर्दतां च मुहुर्मुहुः ।
पार्था विमनसो भूत्वा न्यवर्तन्त महारथाः ।
चिन्तयन्तो वधं घोरं द्वैरथेन परंतपाः ॥ ॥ 6-48-121(40642)
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि प्रथमदिवसयुद्धे अष्टचत्वारिंशोऽध्यायः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|